Sukta 7.36
प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् । भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् ॥
प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् । भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥
prá vo mahī́m arámatim kṛṇudhvam prá pū́ṣaṇaṃ vidathyàṃ na vīrám | bhágaṃ dhíyo 'vitā́raṃ no asyā́ḥ sātáu vā́jaṃ rā́ti-sācaṃ púramdhim ||
Bring forward for yourselves the great Aramati—wide and steadfast in right-mindedness; bring forward Pūṣan, the hero of the gatherings, the finder and increaser of the way. And establish for us Bhaga, the protector of our thought in this winning; grant the vāja, the plenitude that accompanies the gift, and Purandhi, the power of rich plenishing.
प्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् । भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । शा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥प्र । वः । महीम् । अरमतिम् । कृणुध्वम् । प्र । पूषणम् । विदथ्यम् । न । वीरम् । भगम् । धियः । अवितारम् । नः । अस्याः । शातौ । वाजम् । रातिसाचम् । पुरम्धिम् ॥pra | vaḥ | mahīm | aramatim | kṛṇudhvam | pra | pūṣaṇam | vidathyam | na | vīram | bhagam | dhiyaḥ | avitāram | naḥ | asyāḥ | śātau | vājam | rāti-sācam | puram-dhim