Sukta 7.33
त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति । यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥
त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति । य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥
tá ín niṇyáṁ hṛ́dayasya pra-ketáiḥ sahásra-valśam abhí sám caranti | yaména tatáṁ pari-dhíṁ váyanto 'psárasa úpa sedúr vasiṣṭhā́ḥ ||
They move about the secret place of the heart by their powers of luminous discernment, encompassing the thousand-branched growth. Weaving the boundary that is stretched by Yama’s law, the Vasiṣṭhas have drawn near to the Apsarases (the flowing inspirations).
ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ । य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥ते । इत् । निण्यम् । हृदयस्य । प्रकेतैः । सहस्रवल्शम् । अभि । सम् । चरन्ति । यमेन । ततम् । परिधिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः ॥te | it | niṇyam | hṛdayasya | pra-ketaiḥ | sahasra-valśam | abhi | sam | carant i | yamena | tatam | pari-dhim | vayantaḥ | apsarasaḥ | upa | seduḥ | vasiṣṭhāḥ