Sukta 7.33
सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः । वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥
सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः । वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥
sū́ryasya-iva vakṣátho jyótir eṣāṁ samudrásya-iva mahimā́ gabhīráḥ | vā́tasya-iva pra-javó nā́nyena stómo vasiṣṭhā ánv-etave vaḥ ||
As the Sun bears and drives forward their light, as the Ocean holds a deep and vast greatness, as the Wind moves with irresistible impetus—so is this hymn, O Vasiṣṭhas, to pursue and reach you by no other path.
सूर्य॑स्यऽइव । व॒क्षथः॑ । ज्योतिः॑ । ए॒षा॒म् । स॒मु॒द्रस्य॑ऽइव । म॒हि॒मा । ग॒भी॒रः । वात॑स्यऽइव । प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्तोमः॑ । व॒सि॒ष्ठाः॒ । अनु॑ऽएतवे । वः॒ ॥सूर्यस्यइव । वक्षथः । ज्योतिः । एषाम् । समुद्रस्यइव । महिमा । गभीरः । वातस्यइव । प्रजवः । न । अन्येन । स्तोमः । वसिष्ठाः । अनुएतवे । वः ॥sūryasya-iva | vakṣathaḥ | jyotiḥ | eṣām | samudrasya-iva | mahimā | gabhīraḥ | vātasya-iva | pra-javaḥ | na | anyena | stomaḥ | vasiṣṭhāḥ | anu-etave | vaḥ