Sukta 7.33
विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा । तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥
वि॒द्युतो॒ ज्योति॒: परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा । तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥
vi-dyúto jyótiḥ pári saṁ-jíhānaṁ mitrā́varuṇā yád ápaśyatāṁ tvā | tát te jánmóta ékaṁ vasiṣṭhāgástyo yát tvā víśa ā-jabhā́ra ||
When Mitra and Varuṇa beheld you as a light of lightning gathering around itself, that was one of your births, O Vasiṣṭha. Another was when Agastya bore you forth for the peoples—to serve the collective life with the flame of ordered truth.
वि॒ऽद्युतः॑ । ज्योतिः॑ । परि॑ । स॒म्ऽजिहा॑नम् । मि॒त्रावरु॑णा । यत् । अप॑श्यताम् । त्वा॒ । तत् । ते॒ । जन्म॑ । उ॒त । एक॑म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः॑ । यत् । त्वा॒ । वि॒शः । आ॒ऽज॒भार॑ ॥विद्युतः । ज्योतिः । परि । सम्जिहानम् । मित्रावरुणा । यत् । अपश्यताम् । त्वा । तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आजभार ॥vi-dyutaḥ | jyotiḥ | pari | sam-jihānam | mitrāvaruṇā | yat | apaśyatām | tvā | tat | te | janma | uta | ekam | vasiṣṭha | agastyaḥ | yat | tvā | viśaḥ | ājabhāra