Sukta 7.33
त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः । त्रयो घर्मास उषसं सचन्ते सर्वाँ इत्ताँ अनु विदुर्वसिष्ठाः ॥
त्रय॑: कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः । त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥
tráyaḥ kṛṇvanti bhúvaneṣu rétas tisráḥ pra-jā́ ā́ryā jyótir-agrāḥ | tráyo gharmā́sa uṣásaṁ sacante sárvāṁ íttā́n ánu vidúr vasiṣṭhā́ḥ ||
Three set the seed of becoming in the worlds; three are the noble births whose first head is Light. Three are the heats that companion the Dawn. All these indeed the Vasiṣṭhas know and follow in their right understanding.
त्रयः॑ । कृ॒ण्व॒न्ति॒ । भुव॑नेषु । रेतः॑ । ति॒स्रः । प्र॒ऽजाः । आर्याः॑ । ज्योतिः॑ऽअग्राः । त्रयः॑ । घ॒र्मासः॑ । उ॒षस॑म् । स॒च॒न्ते॒ । सर्वा॑न् । इत् । तान् । अनु॑ । वि॒दुः॒ । वसि॑ष्ठाः ॥त्रयः । कृण्वन्ति । भुवनेषु । रेतः । तिस्रः । प्रजाः । आर्याः । ज्योतिःअग्राः । त्रयः । घर्मासः । उषसम् । सचन्ते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः ॥trayaḥ | kṛṇvanti | bhuvaneṣu | retaḥ | tisraḥ | pra-jāḥ | āryāḥ | jyotiḥ-agrāḥ | trayaḥ | gharmāsaḥ | uṣasam | sacante | sarvān | it | tān | anu | viduḥ | vasiṣṭhāḥ