Sukta 7.33
दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः । अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥
द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कास॑: । अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥
daṇḍā́ ivéd go-ajanāsa āsan pári-cchinnā bharatā́ arbhakā́saḥ | ábhavac ca pura-etā́ vasiṣṭhá ā́d ít tṛtsūnā́ṁ víśo aprathanta ||
Like firm staves, the Bharatas—still young in their growth—stood compact and well-knit, born of the luminous Cow (the Rays of knowledge). And Vasiṣṭha became their leader in the front; then indeed the peoples of the Tṛtsus spread out and grew in their ordered strength.
द॒ण्डाऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽच्छिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ । अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥दण्डाइव । इत् । गोअजनासः । आसन् । परिच्छिन्नाः । भरताः । अर्भकासः । अभवत् । च । पुरःएता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त ॥daṇḍāiva | it | go--ajanāsaḥ | āsan | pari-cchinnāḥ | bharatāḥ | arbhakāsaḥ | abhavat | ca | puraḥ-etā | vasiṣṭhaḥ | āt | it | tṛtsūnām | viśaḥ | aprathanta