Sukta 7.33
जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ । यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥
जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥
júṣṭī naro bráhmaṇā vaḥ pitṝṇā́m ákṣam avyáyaṃ ná kilā riṣātha | yác chakvarī́ṣu bṛhatā́ ravéṇéndre śúṣmam ádad hātā vasiṣṭhāḥ ||
Men, you were beloved for your fathers’ brahman; you did not, indeed, injure the imperishable axle (the steadfast law). When in the śakvarī measures, with a vast cry, you set the force in Indra, O Vasiṣṭhas.
जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ । यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥जुष्टी । नरः । ब्रह्मणा । वः । पितॄणाम् । अक्षम् । अव्ययम् । न । किल । रिषाथ । यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः ॥juṣṭī | naraḥ | brahmaṇā | vaḥ | pitṝṇām | akṣam | avyayam | na | kila | riṣātha | yat | śakvarīṣu | bṛhatā | raveṇa | indre | śuṣmam | adadhāta | vasiṣṭhāḥ