Sukta 7.33
एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान । एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥
ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान । ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥
evén nu kaṃ síndhum ebhís tatāra evén nu kaṃ bhedám ebhír jaghāna | evén nu kaṃ dāśarājñé sudā́saṃ prā́vad índro bráhmaṇā vo vasiṣṭhāḥ ||
Thus indeed he crossed the river with these (helpers); thus indeed he smote Bheda with these. Thus indeed, in the battle of the Ten Kings, Indra protected Sudās by your brahman, O Vasiṣṭhas—by the power of the inspired Word.
ए॒व । इत् । नु । क॒म् । सिन्धु॑म् ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ । ए॒व । इत् । नु । क॒म् । दा॒श॒ऽरा॒ज्ञे । सु॒ऽदास॑म् । प्र । आ॒व॒त् । इन्द्रः॑ । ब्रह्म॑णा । वः॒ । व॒सि॒ष्ठाः॒ ॥एव । इत् । नु । कम् । सिन्धुम् एभिः । ततार । एव । इत् । नु । कम् । भेदम् । एभिः । जघान । एव । इत् । नु । कम् । दाशराज्ञे । सुदासम् । प्र । आवत् । इन्द्रः । ब्रह्मणा । वः । वसिष्ठाः ॥eva | it | nu | kam | sindhum ebhiḥ | tatāra | eva | it | nu | kam | bhedam | ebhiḥ | jaghāna | eva | it | nu | kam | dāśa-rājñe | su-dāsam | pra | āvat | indraḥ | brahmaṇā | vaḥ | vasiṣṭhāḥ