Sukta 7.33
दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् । पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥
दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम् । पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥
dūrā́d índram anayan nā́ suténa tiró vaiśántam áti pā́ntam ugrám | pā́śa-dyumnasya vāyátasya sómāt sutā́d índro ’vṛṇītā vásiṣṭhān ||
From afar they led Indra hither by the pressed Soma, passing beyond the encircling (powers), beyond the guarded, the formidable. From the Soma pressed by Pāśadyumna Vāyata, Indra chose the Vasiṣṭhas—making them his own for the work.
दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् । पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥दूरात् । इन्द्रम् । अनयन् । आ । सुतेन । तिरः । वैशन्तम् । अति । पान्तम् । उग्रम् । पाशद्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान् ॥dūrāt | indram | anayan | ā | sutena | tiraḥ | vaiśantam | ati | pāntam | ugram | pāśa-dyumnasya | vāyatasya | somāt | sutāt | indraḥ | avṛṇīta | vasiṣṭhān