Sukta 7.33
श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः । उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥
श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः । उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥
śvityáñco mā dakṣiṇatáḥ-kapardā dhiyáṃ-jinvāso abhí hí pramandúḥ | ut-tíṣṭhan voce pári barhíṣo nṝ́n ná me dūrā́d avitave vásiṣṭhāḥ ||
Gleaming, with their locks bound on the right, they have gladdened me, fostering the thought, pressing near in delight. Rising up, I speak, encompassing the men around the sacred grass: O Vasiṣṭhas, be not far from me for protection.
श्वि॒त्यञ्चः॑ । मा । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः । उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥श्वित्यञ्चः । मा । दक्षिणतःकपर्दाः । धियम्जिन्वासः । अभि । हि । प्रमन्दुः । उत्तिष्ठन् । वोचे । परि । बर्हिषः । नॄन् । न । मे । दूरात् । अवितवे । वसिष्ठाः ॥śvityañcaḥ | mā | dakṣiṇataḥ-kapardāḥ | dhiyam-jinvāsaḥ | abhi | hi | pra-manduḥ | ut-tiṣṭhan | voce | pari | barhiṣaḥ | nṝn | na | me | dūrāt | avitave | vasiṣṭhāḥ