Sukta 7.33
सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥
स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेत॑: सिषिचतुः समा॒नम् । ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥
satré ha jātā́viṣitā námobhiḥ kumbhé rétaḥ sisicatuḥ samānám | táto ha mā́na úd iyāya mádhyāt táto jātám ṛ́ṣim āhur vasiṣṭhám ||
In the sacrifice-session, urged at birth by acts of reverence, they poured the one common seed into a jar. From there the vital self rose upward from the middle; from there they call the born one a seer—Vasiṣṭha, the most established in the truth.
स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः॑ऽभिः । कु॒म्भे । रेतः॑ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् । ततः॑ । ह॒ । मानः॑ । उत् । इ॒या॒य॒ । मद्या॑त् । ततः॑ । जा॒तम् । ऋषि॑म् । आ॒हुः॒ । वसि॑ष्ठम् ॥सत्रे । ह । जातौ । इषिता । नमःभिः । कुम्भे । रेतः । सिसिचतुः । समानम् । ततः । ह । मानः । उत् । इयाय । मद्यात् । ततः । जातम् । ऋषिम् । आहुः । वसिष्ठम् ॥satre | ha | jātau | iṣitā | namaḥ-bhiḥ | kumbhe | retaḥ | sisicatuḥ | samānam | tataḥ | ha | mānaḥ | ut | iyāya | madyāt | tataḥ | jātam | ṛṣim | āhuḥ | vasiṣṭham