Sukta 7.33
उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे । उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥
उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ । उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥
ukthá-bhṛtaṁ sā́ma-bhṛtaṁ bibharti grā́vāṇaṁ bíbhrat prá vadāty ágre | upá enam ādhvaṁ su-manasyámānā ā́ vo gacchāti pra-tṛ́do vasiṣṭháḥ ||
He bears the hymn and he bears the chant; bearing the pressing-stone, he speaks forth in the front. Draw near to him with a happy and consenting mind; Vasiṣṭha the path-breaker comes to you.
उ॒क्थ॒ऽभृत॑म् । सा॒म॒ऽभृत॑म् । बि॒भ॒र्ति॒ । ग्रावा॑णम् । बिभ्र॑त् । प्र । व॒दा॒ति॒ । अग्रे॑ । उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒न॒स्यमा॑नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒ऽतृ॒दः॒ । वसि॑ष्ठः ॥उक्थभृतम् । सामभृतम् । बिभर्ति । ग्रावाणम् । बिभ्रत् । प्र । वदाति । अग्रे । उप । एनम् । आध्वम् । सुमनस्यमानाः । आ । वः । गच्छाति । प्रतृदः । वसिष्ठः ॥uktha-bhṛtam | sāma-bhṛtam | bibharti | grāvāṇam | bibhrat | pra | vadāti | agre | upa | enam | ādhvam | su-manasyamānāḥ | ā | vaḥ | gacchāti | pra-tṛdaḥ | vasiṣṭhaḥ