Sukta 7.33
स प्रकेत उभयस्य प्रविद्वान्त्सहस्रदान उत वा सदानः । यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥
स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः । य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रस॒: परि॑ जज्ञे॒ वसि॑ष्ठः ॥
sá pra-ketá ubháyasya pra-vidvā́n sahásra-dāna utá vā sádānaḥ | yaména tatáṁ pari-dhíṁ váyiṣyann apsárasaḥ pári jajñe vasiṣṭháḥ ||
He, the luminous discerner, knowing both sides (heavenly and earthly, inner and outer), giver of a thousand plenitudes and also their constant holder—desiring to weave Yama’s stretched boundary, Vasiṣṭha was born encompassing the Apsarases, the flowing inspirations.
सः । प्र॒ऽके॒तः । उ॒भय॑स्य । प्र॒ऽवि॒द्वान् । स॒हस्र॑ऽदानः । उ॒त । वा॒ । सऽदा॑नः । यमेन॑ । त॒तम् । प॒रि॒ऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः॑ । परि॑ । ज॒ज्ञे॒ । वसि॑ष्ठः ॥सः । प्रकेतः । उभयस्य । प्रविद्वान् । सहस्रदानः । उत । वा । सदानः । यमेन । ततम् । परिधिम् । वयिष्यन् । अप्सरसः । परि । जज्ञे । वसिष्ठः ॥saḥ | pra-ketaḥ | ubhayasya | pra-vidvān | sahasra-dānaḥ | uta | vā | sa-dānaḥ | yamena | tatam | pari-dhim | vayiṣyan | apsarasaḥ | pari | jajñe | vasiṣṭhaḥ