Sukta 7.33
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥
उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः । द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥
utā́si maitrāvaruṇó vasiṣṭhorvaśyā́ brahman mánaso 'dhi jātáḥ | drápsaṁ skánnaṁ bráhmaṇā daívyena víśve devā́ḥ púṣkare tvā adadanta ||
And you are the Maitrāvaruṇa, O Vasiṣṭha; born from Urvaśī, O brahman, out of the mind. A drop that had fallen, by the divine Word, all the gods placed you in the lotus-pool—so the concentrated essence might grow into a seer’s established power.
उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्या॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः । द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥उत । असि । मैत्रावरुणः । वसिष्ठ । उर्वश्या । ब्रह्मन् । मनसः । अधि । जातः । द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥uta | asi | maitrāvaruṇaḥ | vasiṣṭha | urvaśyā | brahman | manasaḥ | adhi | jātaḥ | drapsam | skannam | brahmaṇā | daivyena | viśve | devāḥ | puṣkare | tvā | adadanta