Sukta 7.32
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥
इ॒मे हि ते॑ ब्रह्म॒कृत॑: सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते । इन्द्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥
imé hí te brahmakṛ́taḥ suté sacā́ mádhau ná mákṣa āsate | índre kā́maṃ jaritā́ro vasūyávo ráthe ná pā́dam ā́ dadhuḥ ||
These makers of the mantra sit with your pressed soma as if in honeyed sweetness; desiring the riches of being, the praisers have set their footing in Indra, as one sets a foot on the chariot-step.
इ॒मे । हि । ते॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । मधौ॑ । न । मक्षः॑ । आस॑ते । इन्द्रे॑ । काम॑म् । ज॒रि॒तारः॑ । व॒सु॒ऽयवः॑ । रथे॑ । न । पाद॑म् । आ । द॒धुः॒ ॥इमे । हि । ते । ब्रह्मकृतः । सुते । सचा । मधौ । न । मक्षः । आसते । इन्द्रे । कामम् । जरितारः । वसुयवः । रथे । न । पादम् । आ । दधुः ॥ime | hi | te | brahma-kṛtaḥ | sute | sacā | madhau | na | makṣaḥ | āsate | indre | kāmam | jaritāraḥ | vasu-yavaḥ | rathe | na | pādam | ā | dadhuḥ