Sukta 7.30
हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥
हव॑न्त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूरा॒: सूर्य॑स्य सा॒तौ । त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ॥
hávanta u tvā havyáṃ vívāci tanū́ṣu śūrā́ḥ sū́ryasya sātáu | tváṃ víśveṣu sényo jáneṣu tváṃ vṛtrā́ṇi randhayā suhántu ||
They call you, the oblation, with the far-sounding word—the heroes within their bodies in the winning of the Sun. You are the battle-worthy in all peoples; you make the obstructing powers submissive, that they may be well-struck and slain.
हव॑न्ते । ऊँ॒ इति॑ । त्वा॒ । हव्य॑म् । विऽवा॑चि । त॒नूषु॑ । शूराः॑ । सूर्य॑स्य । सा॒तौ । त्वम् । विश्वे॑षु । सेन्यः॑ । जने॑षु । त्वम् । वृ॒त्राणि॑ । र॒न्ध॒य॒ । सु॒ऽहन्तु॑ ॥हवन्ते । ऊँ इति । त्वा । हव्यम् । विवाचि । तनूषु । शूराः । सूर्यस्य । सातौ । त्वम् । विश्वेषु । सेन्यः । जनेषु । त्वम् । वृत्राणि । रन्धय । सुहन्तु ॥havante | oṃ iti | tvā | havyam | vi-vāci | tanūṣu | śūrāḥ | sūryasya | sātau | tvam | viśveṣu | senyaḥ | janeṣu | tvam | vṛtrāṇi | randhaya | su-hantu