Sukta 7.30
आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य । महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥
आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इ॑न्द्र रा॒यो अ॒स्य । म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥
ā́ no deva śávāsā yāhi śuṣmín bhávā vṛ́dha índra rāyó asyá | mahé nṛ́mṇāya nṛpate suvájra máhi kṣatrā́ya paúṃsyāya śūra ||
Come to us, O god, with your power; be for us an augmenter, O Indra, of this plenitude. For great manhood-force, O lord of men, O wielder of the good thunderbolt—yes, for a vast sovereignty and heroic potency, O hero.
आ । नः॒ । दे॒व॒ । शव॑सा । या॒हि॒ । शु॒ष्मि॒न् । भव॑ । वृ॒धः । इ॒न्द्र॒ । रा॒यः । अ॒स्य । म॒हे । नृ॒म्णाय॑ । नृ॒ऽप॒ते॒ । सु॒ऽव॒ज्र॒ । महि॑ । क्ष॒त्राय॑ । पौंस्या॑य । शू॒र॒ ॥आ । नः । देव । शवसा । याहि । शुष्मिन् । भव । वृधः । इन्द्र । रायः । अस्य । महे । नृम्णाय । नृपते । सुवज्र । महि । क्षत्राय । पौंस्याय । शूर ॥ā | naḥ | deva | śavasā | yāhi | śuṣmin | bhava | vṛdhaḥ | indra | rāyaḥ | asya | mahe | nṛmṇāya | nṛ-pate | su-vajra | mahi | kṣatrāya | paiṃsyāya | śūra