Sukta 7.30
अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु । न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् ॥
अहा॒ यदि॑न्द्र सु॒दिना॑ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ । न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥
ahā́ yádindra su-dínā vy-ucchā́n dadho yát ketúm upa-máṃ samátsu | ny àgníḥ sī́dad ásuro ná hótā huvānó átra su-bhágāya devā́n ||
O Indra, when the luminous days break open and you set up the supreme banner of Light in the battles, then Agni settles down within us like a lordly priest, invoking here the gods for the soul’s good fortune and felicity.
अहा॑ । यत् । इ॒न्द्र॒ । सु॒ऽदिना॑ । वि॒ऽउ॒च्छान् । दधः॑ । यत् । के॒तुम् । उ॒प॒ऽमम् । स॒मत्ऽसु॑ । नि । अ॒ग्निः । सी॒द॒त् । असु॑रः । न । होता॑ । हु॒वा॒नः । अत्र॑ । सु॒ऽभगा॑य । दे॒वान् ॥अहा । यत् । इन्द्र । सुदिना । विउच्छान् । दधः । यत् । केतुम् । उपमम् । समत्सु । नि । अग्निः । सीदत् । असुरः । न । होता । हुवानः । अत्र । सुभगाय । देवान् ॥ahā | yat | indra | su-dinā | vi-ucchān | dadhaḥ | yat | ketum | upa-mam | samat-su | ni | agniḥ | sīdat | asuraḥ | na | hotā | huvānaḥ | atra | su-bhagāya | devān