Sukta 7.26
एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति । सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥
ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति । स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
evā́ vasiṣṭhá índram ūtáye nṝ́n kṛṣṭīnā́ṁ vṛṣabháṁ suté gṛṇāti | sahasríṇa úpa no māhi vā́jān yūyáṁ pāta svastí-bhiḥ sádā naḥ ||
Thus Vasiṣṭha sings Indra for our help—the bull of the peoples, in the pressed Soma. Bring near to us the thousandfold plenitudes of force; and do you guard us always with states of well-being.
ए॒व । वसि॑ष्ठः । इन्द्र॑म् । ऊ॒तये॑ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । वसिष्ठः । इन्द्रम् । ऊतये । नॄन् । कृष्टीनाम् । वृषभम् । सुते । गृणाति । सहस्रिणः । उप । नः । माहि । वाजान् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eva | vasiṣṭhaḥ | indram | ūtaye | nṝn | kṛṣṭīnām | vṛṣabham | sute | gṛṇāti | sahasr iṇaḥ | upa | naḥ | māhi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ