Sukta 7.25
आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः । पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥
आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेना॑: । पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥
ā te mahá indrotý ugra sa-mányavo yát sám-aranta sénāḥ | pátāti didyún náryasya bāhvór mā́ te máno viṣvádryàg ví cārīt ||
To thy great help, O Indra, O formidable, the battle-hosts gather in one ardour when they close for the encounter. The lightning of the heroic one leaps from his arms; let not thy mind range scattered in all directions.
आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । सऽम॑न्यवः । यत् । स॒म्ऽअर॑न्त । सेनाः॑ । पता॑ति । दि॒द्युत् । नर्य॑स्य । बा॒ह्वोः । मा । ते॒ । मनः॑ । वि॒ष्व॒द्र्य॑क् । वि । चा॒री॒त् ॥आ । ते । महः । इन्द्र । ऊती । उग्र । समन्यवः । यत् । सम्अरन्त । सेनाः । पताति । दिद्युत् । नर्यस्य । बाह्वोः । मा । ते । मनः । विष्वद्र्यक् । वि । चारीत् ॥ā | te | mahaḥ | indra | ūtī | ugra | sa-manyavaḥ | yat | sam-aranta | senāḥ | patāti | didyut | naryasya | bāhvoḥ | mā | te | manaḥ | viṣvadryak | vi | cārīt