Sukta 7.22
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि ॥
न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् । सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥
ná te gíro ápi mṛṣye turásya ná suṣṭutím asuryásya vidvā́n | sádā te nā́ma svayaśo vivakmi ||
I do not begrudge thy words, O swift one, nor the well-praise of thy lordly mastery, for I know it. Always I utter thy name, self-glorious.
न । ते॒ । गिरः॑ । अपि॑ । मृ॒ष्ये॒ । तु॒रस्य॑ । न । सु॒ऽस्तु॒तिम् । अ॒सु॒र्य॑स्य । वि॒द्वान् । सदा॑ । ते॒ । नाम॑ । स्व॒ऽय॒शः॒ । वि॒व॒क्मि॒ ॥न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सुस्तुतिम् । असुर्यस्य । विद्वान् । सदा । ते । नाम । स्वयशः । विवक्मि ॥na | te | giraḥ | api | mṛṣye | turasya | na | su-stutim | asuryasya | vidvān | sadā | te | nāma | sva-yaśaḥ | vivakmi