Sukta 7.22
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ । स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥
yás te mádo yújyaś cā́rur ásti yéna vṛtrā́ṇi haryaśva háṃsi | sá tvām indra prabhūvaso mamattu ||
That rapture of thine which is fitly harnessed and beautiful, by which, O tawny-steeded, thou smitest the coverers, let that, O Indra of abundant substance, intoxicate and fill thee.
यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ । सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हरिअश्व । हंसि । सः । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुवसो । ममत्तु ॥yaḥ | te | madaḥ | yujyaḥ | cāruḥ | asti | yena | vṛtrāṇi | hari-aśva | haṃsi | saḥ | tvām | indra | prabhuvaso itiprabhu-vaso | mamattu