Sukta 7.22
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्यां सुयतो नार्वा ॥
पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रि॑: । सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥
píbā sómam indra mándatu tvā yáṃ te suṣā́va haryaśvā́driḥ | sotúr bāhúbhyāṃ súyato nā́rvā ||
Drink the Soma, O Indra; let it delight and widen thee—this that the stone, O thou of tawny steeds, has pressed out for thee. Like a well-yoked steed, it is driven forth by the presser’s arms.
पिब॑ । सोम॑म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒साव॑ । ह॒रि॒ऽअ॒श्व॒ । अद्रिः॑ । सो॒तुः । बा॒हुऽभ्या॑म् । सुऽय॑तः । न । अर्वा॑ ॥पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुसाव । हरिअश्व । अद्रिः । सोतुः । बाहुभ्याम् । सुयतः । न । अर्वा ॥piba | somam | indra | mandatu | tvā | yam | te | susāva | hari-aśva | adriḥ | sotuḥ | bāhu-bhyām | su-yataḥ | na | arvā