Sukta 7.21
भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् । इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥
भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् । इन्द्र॒: पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥
bhīmó viveṣā́yudhebhir eṣā́m apā́ṃsi víśvā naryā́ṇi vidvā́n | índraḥ púro jarhṛṣāṇó ví dū́dhot ví vájrahasto mahinā́ jaghāna ||
Terrible, he has driven them apart with his weapons, knowing all their manly deeds. Indra, exulting, has shattered their strongholds; the thunderbolt-bearer, by greatness, has struck them down.
भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् । इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥भीमः । विवेष । आयुधेभिः । एषाम् । अपांसि । विश्वा । नर्याणि । विद्वान् । इन्द्रः । पुरः । जर्हृषाणः । वि । दूधोत् । वि । वज्रहस्तः । महिना । जघान ॥bhīmaḥ | viveṣa | āyudhebhiḥ | eṣām | apāṃsi | viśvā | naryāṇi | vidvān | indraḥ | puraḥ | jarhṛṣāṇaḥ | vi | dūdhot | vi | vajra-hastaḥ | mahinā | jaghāna