Sukta 7.21
त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः । त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥
त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्क॒: परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥
tvámindra srávitavā́ apáskaḥ páriṣṭhitā́ áhīnā śūra pū́rvīḥ | tvád vāvakre rathyò ná dhénā réjante víśvā kṛtrímāṇi bhīṣā́ ||
You, O Indra, are the releaser of the waters—active in the works; the ancient streams were held about by the serpent. From you they turned and rolled forth like swift chariots; all the fashioned obstructions tremble in fear.
त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः । त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥त्वम् । इन्द्र । स्रवितवै । अपः । करिति कः । परिस्थिताः । अहिना । शूर । पूर्वीः । त्वत् । वावक्रे । रथ्यः । न । धेनाः । रेजन्ते । विश्वा । कृत्रिमाणि । भीषा ॥tvam | indra | sravitavai | apaḥ | karitikaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ | tvat | vāvakre | rathyaḥ | na | dhenāḥ | rejante | viśvā | kṛtrimāṇi | bhīṣā