Sukta 7.21
प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥
प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः । न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाच॑: ॥
prá yanti yajñáṃ vipáyanti bárhiḥ sómamā́do vidáthe dudhrávācaḥ | ny ù bhriyante yaśáso gṛbhā́d ā́ dū́ra-upabdaḥ vṛ́ṣaṇo nṛṣā́caḥ ||
They go forward to the sacrifice; they spread the sacred seat. In the assembly the soma-delight is prepared by firm-voiced invocations. The glories are borne down from the grasp into manifestation; far-reaching is the call to the Bull-power who moves among men.
प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः । नि । ऊँ॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥प्र । यन्ति । यज्ञम् । विपयन्ति । बर्हिः । सोममादः । विदथे । दुध्रवाचः । नि । ऊँ इति । भ्रियन्ते । यशसः । गृभात् । आ । दूरेउपब्दः । वृषणः । नृसाचः ॥pra | yanti | yajñam | vipayanti | barhiḥ | soma-mādaḥ | vidathe | dudhra-vācaḥ | ni | oṃ iti | bhriyante | yaśasaḥ | gṛbhāt | ā | dūre--upabdaḥ | vṛṣaṇaḥ | nṛ-sācaḥ