Sukta 7.21
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । बोधामसि त्वा हर्यश्व यज्ञैर्बोधा नः स्तोममन्धसो मदेषु ॥
असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच । बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ न॒: स्तोम॒मन्ध॑सो॒ मदे॑षु ॥
asā́vi deváṃ goṛ́jīkam ándho nyàsmin índro jánuṣem uvoca | bodhā́masi tvā haryáśva yajñáir bódhā naḥ stómaṃ ándhaso mádeṣu ||
The divine pressing has been expressed—the soma that wins the Light; in it Indra, by his very birth, has spoken. We awaken to you, O tawny-horsed one, by our sacrifices; awaken for us to the hymn in the ecstasies of the soma.
असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ । बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥असावि । देवम् । गोऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच । बोधामसि । त्वा । हरिअश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥asāvi | devam | go--ṛjīkam | andhaḥ | ni | asmin | indraḥ | januṣā | īm | uvoca | bodhāmasi | tvā | haru-aśva | yajñaiḥ | bodha | naḥ | stomam | andhasaḥ | madeṣu