Sukta 7.20
यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते । वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥
यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिव॒: सखा॑ ते । व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठा॒: स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥
yás ta indra priyó jáno dadā́śad ásan nireké adrivaḥ sákhā te | vayáṃ te asyā́ṃ su-matáu caníṣṭhāḥ syā́ma várūthe ághnato nṛ́pītau ||
He who is dear to you, O Indra, who gives and becomes your friend in the solitary inward space—O wielder of the stone—may we be the most cherished in this your good-minded grace, within your shelter, unharmed, under your lordly guardianship.
यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ । व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्या॒म॒ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥यः । ते । इन्द्र । प्रियः । जनः । ददाशत् । असत् । निरेके । अद्रिवः । सखा । ते । वयम् । ते । अस्याम् । सुमतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृपीतौ ॥yaḥ | te | indra | priyaḥ | janaḥ | dadāśat | asat | nireke | adri-vaḥ | sakhā | te | vayam | te | asyām | su-matau | caniṣṭhāḥ | syāma | varūthe | aghnataḥ | nṛ-pītau