Sukta 7.20
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् । अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥
यदि॑न्द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णम् । अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं न॑: ॥
yádindra pū́rvo áparāya śíkṣann áyaj jyā́yān kanī́yaso déṣṇam | amṛ́ta ít paryā́sīt dū́ram ā́ citra citryáṃ bharā rayíṃ naḥ ||
If, O Indra, the elder once instructed the younger and the stronger bestowed a gift upon the lesser, then the Immortal indeed stood around and beyond even what is far: bring to us, O Wonder-worker, a wealth that is manifold and luminous—fullness of being.
यत् । इ॒न्द्र॒ । पूर्वः॑ । अप॑राय । शि॒क्ष॒न् । अय॑त् । ज्याया॑न् । कनी॑यसः । दे॒ष्णम् । अ॒मृतः॑ । इत् । परि॑ । आ॒सी॒त॒ । दू॒रम् । आ । चि॒त्र॒ । चित्र्य॑म् । भ॒र॒ । र॒यिम् । नः॒ ॥यत् । इन्द्र । पूर्वः । अपराय । शिक्षन् । अयत् । ज्यायान् । कनीयसः । देष्णम् । अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः ॥yat | indra | pūrvaḥ | aparāya | śikṣan | ayat | jyāyān | kanīyasaḥ | deṣṇam | amṛtaḥ | it | pari | āsīta | dūram | ā | citra | citryam | bhara | rayim | naḥ