Sukta 7.20
नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् । यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥
नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् । य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥
nū́ cít sá bhreṣate jánō ná réṣan máno yó asya ghōrám āvivā́sāt | yajñáir yá índre dádhate duvā́ṃsi kṣáyat sá rāyé ṛtapā́ ṛtéjāḥ ||
Even now that person stumbles not, nor does the mind fall into harm, who has served the terrible (force) of him with reverence. He who by sacrifices sets his offerings in Indra, dwells in the plenitude: a drinker of ṛta, born of ṛta.
नु । चि॒त् । सः । भ्रे॒ष॒ते॒ । जनः॑ । न । रे॒ष॒त् । मनः॑ । यः । अ॒स्य॒ । घो॒रम् । आ॒ऽविवा॑सात् । य॒ज्ञैः । यः । इन्द्रे॑ । दध॑ते । दुवां॑सि । क्षय॑त् । सः । रा॒ये । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः ॥नु । चित् । सः । भ्रेषते । जनः । न । रेषत् । मनः । यः । अस्य । घोरम् । आविवासात् । यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋतपाः । ऋतेजाः ॥nu | cit | saḥ | bhreṣate | janaḥ | na | reṣat | manaḥ | yaḥ | asya | ghoram | āvivāsāt | yajñaiḥ | yaḥ | indre | dadhate | duvāṃsi | kṣayat | saḥ | rāye | ṛta-pāḥ | ṛte--jāḥ