Sukta 7.20
वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव । प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥
वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव । प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑ण॒: स धृ॒ष्णुः ॥
vṛ́ṣā jajāna vṛ́ṣaṇaṃ ráṇāya tám u cin nā́rī náryaṃ sasūva | prá yáḥ senānī́r ádha nṛ́bhyō ástīnaḥ sátvā gavéṣaṇaḥ sá dhṛ́ṣṇuḥ ||
The Bull has begotten the Bull for battle; even a woman has borne that human-heroic power. He who stands forth as leader of the hosts for the strong—this being, seeker of the luminous cows (rays), is the daring one.
वृषा॑ । ज॒जा॒न॒ । वृष॑णम् । रणा॑य । तम् । ऊँ॒ इति॑ । चि॒त् । नारी॑ । नर्य॑म् । स॒सू॒व॒ । प्र । यः । से॒ना॒ऽनीः । अध॑ । नृऽभ्यः॑ । अस्ति॑ । इ॒नः । सत्वा॑ । गो॒ऽएष॑णः । सः । धृ॒ष्णुः ॥वृषा । जजान । वृषणम् । रणाय । तम् । ऊँ इति । चित् । नारी । नर्यम् । ससूव । प्र । यः । सेनानीः । अध । नृभ्यः । अस्ति । इनः । सत्वा । गोएषणः । सः । धृष्णुः ॥vṛṣā | jajāna | vṛṣaṇam | raṇāya | tam | oṃ iti | cit | nārī | naryam | sasūva | pra | yaḥ | senānīḥ | adha | nṛ-bhyaḥ | asti | inaḥ | satvā | go--eṣaṇaḥ | saḥ | dhṛṣṇuḥ