Sukta 7.20
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः । नि वज्रमिन्द्रो हरिवान्मिमिक्षन्त्समन्धसा मदेषु वा उवोच ॥
उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः । नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥
ubhḗ cid indra ródasī mahitvā́ paprā́tha táviṣībhis tuvíṣmaḥ | ní vájram índro hárivān mímikṣan sám ándhasā mádeṣu vā́ uvoca ||
Even both Heaven and Earth, O Indra, thou didst widen by thy greatness, O strong one, with thy intensities. Indra the lord of the shining steeds, mingling the Soma-essence, set down the thunderbolt; and in the ecstasies he uttered the decisive word.
उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ । नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥उभे इति । चित् । इन्द्र । रोदसी इति । महित्वा । पप्राथ । तविषीभिः । तुविष्मः । नि । वज्रम् । इन्द्रः । हरिवान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच ॥ubhe iti | cit | indra | rodasī iti | mahi-tvā | paprātha | taviṣībhiḥ | tuviṣmaḥ | ni | vajram | indraḥ | hari-vān | mimikṣan | sam | andhasā | madeṣu | vai | uvoca