Sukta 7.20
युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः । व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥
यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूर॑: सत्रा॒षाड्ज॒नुषे॒मषा॑ळ्हः । व्या॑स॒ इन्द्र॒: पृत॑ना॒: स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यन्तं॑ जघान ॥
yudhmo anárvā khaja-kṛt samádvā śū́raḥ satrāṣā́ḍ januṣé m aṣā́ḷhaḥ | vyā̀sa índraḥ pṛ́tanāḥ svójā ádhā víśvaṃ śatrūyántaṃ jaghāna ||
Warlike, unbending, breaker of resistance in the shock of battle—hero, ever-conquering, by birth unconquered—Indra has spread out and mastered the battles by his own force; then he smote all that moved in hostility.
यु॒ध्मः । अ॒न॒र्वा । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । शूरः॑ । स॒त्रा॒षाट् । ज॒नुषा॑ । ई॒म् । अषा॑ळ्हः । वि । आ॒से॒ । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । अध॑ । विश्व॑म् । श॒त्रु॒ऽयन्त॑म् । ज॒घा॒न॒ ॥युध्मः । अनर्वा । खजकृत् । समत्वा । शूरः । सत्राषाट् । जनुषा । ईम् । अषाळ्हः । वि । आसे । इन्द्रः । पृतनाः । सुओजाः । अध । विश्वम् । शत्रुयन्तम् । जघान ॥yudhmaḥ | anarvā | khaja-kṛt | samat-vā | śūraḥ | satrāṣāṭ | januṣā | īm | aṣāḷhaḥ | vi | āse | indraḥ | pṛtanāḥ | su-ojāḥ | adha | viśvam | śatru-yantam | jaghāna