Sukta 7.20
हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती । कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥
हन्ता॑ वृ॒त्रमिन्द्र॒: शूशु॑वान॒: प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती । कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥
hántā vṛtrám índraḥ śū́śuvānaḥ prá āvīn nú vīró jaritā́ram ūtī́ | kártā sudā́se áha vā́ u lokáṃ dātā́ vásu múhur ā́ dāśúṣe bhūt ||
Indra, eager and ardent, the slayer of the Coverer, has indeed come forward to help the singer. He has made a wide world for Sudāsa; he has become the giver of riches again and again to the one who offers.
हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती । कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊँ॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती । कर्ता । सुदासे । अह । वै । ऊँ इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥hantā | vṛtram | indraḥ | śūśuvānaḥ | pra | āvīt | nu | vīraḥ | jaritāram | ūtī | kartā | su-dāse | aha | vai | oṃ iti | lokam | dātā | vasu | muhuḥ | ā | dāśuṣe | bhūt