Sukta 7.20
उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् । जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥
उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् । जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ॥
ugró jajñe vīryā̀ya svadhā́vāñ cakrír ápo naryó yát kariṣyán | jagmír yúvā nṛṣádanaṃ ávobhis trātā́ na índra énasō máhaś cit ||
The fierce one is born for hero-power; self-mastered, he has made the mighty waters (currents) ready, intent on the human work he will accomplish. The young one has come to the seat of the strong with his aids: Indra is our saviour even from great guilt and darkness of error.
उ॒ग्रः । ज॒ज्ञे॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । चक्रिः॑ । अपः॑ । नर्यः॑ । यत् । क॒रि॒ष्यन् । जग्मिः॑ । युवा॑ । नृ॒ऽसद॑नम् । अवः॑ऽभिः । त्रा॒ता । नः॒ । इन्द्रः॑ । एन॑सः । म॒हः । चि॒त् ॥उग्रः । जज्ञे । वीर्याय । स्वधावान् । चक्रिः । अपः । नर्यः । यत् । करिष्यन् । जग्मिः । युवा । नृसदनम् । अवःभिः । त्राता । नः । इन्द्रः । एनसः । महः । चित् ॥ugraḥ | jajñe | vīryāya | svadhāvān | cakriḥ | apaḥ | naryaḥ | yat | kariṣyan | jagmiḥ | yuvā | nṛ-sadanam | avaḥ-bhiḥ | trātā | naḥ | indraḥ | enasaḥ | mahaḥ | cit