Sukta 7.2
स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता । पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् ॥
स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता । पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ॥
svā́dhyo ví dúro deva-yánto ’śiśrayu ratha-yúr deva-tātā | pū́rvī́ śíśuṃ ná mā́tarā rihāṇé sám agrúvo ná sámanéṣv añjan ||
Self-mastered, the god-seeking ones open wide the doors; they take their stand, eager for the divine advent. As two mothers lick their newborn child, so the ancient powers foster him; as singers in their assemblies, they anoint and set him in harmony.
सु॒ऽआ॒ध्यः॑ । वि । दुरः॑ । दे॒व॒ऽयन्तः॑ । अशि॑श्रयुः । र॒थ॒ऽयुः । दे॒वऽता॑ता । पू॒र्वी इति॑ । शिशु॑म् । न । मा॒तरा॑ । रि॒हा॒णे इति॑ । सम् । अ॒ग्रुवः॑ । न । सम॑नेषु । अ॒ञ्ज॒न् ॥सुआध्यः । वि । दुरः । देवयन्तः । अशिश्रयुः । रथयुः । देवताता । पूर्वी इति । शिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन् ॥su-ādhyaḥ | vi | duraḥ | deva-yantaḥ | aśiśrayuḥ | ratha-yuḥ | deva-tātā | pūrvī iti | siśum | na | mātarā | rihāṇe iti | sam | agruvaḥ | na | samaneṣu | añjan