Sukta 7.2
सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ । आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥
स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ॑ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ । आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वम् ॥
saparyávo bháramāṇā abhi-jñú prá vṛñjate námasā bárhir agnáu | ā́-juhvānā ghṛtá-pṛṣṭhaṃ pṛ́ṣad-vad ádhvaryavo havíṣā marjayadhvam ||
O ministers of the offering, bringing the oblations with understanding, spread out with reverence the sacred seat for Agni. Pouring forth, make bright with the offering the altar that bears the ghee’s lustre, variegated with rays—polish and perfect the sacrifice by the oblation.
स॒प॒र्यवः॑ । भर॑माणाः । अ॒भि॒ऽज्ञु । प्र । वृ॒ञ्ज॒ते॒ । नम॑सा । ब॒र्हिः । अ॒ग्नौ । आ॒ऽजुह्वा॑नाः । घृ॒तऽपृ॑ष्ठम् । पृष॑त्ऽवत् । अध्व॑र्यवः । ह॒विषा॑ । म॒र्ज॒य॒ध्व॒म् ॥सपर्यवः । भरमाणाः । अभिज्ञु । प्र । वृञ्जते । नमसा । बर्हिः । अग्नौ । आजुह्वानाः । घृतपृष्ठम् । पृषत्वत् । अध्वर्यवः । हविषा । मर्जयध्वम् ॥saparyavaḥ | bharamāṇāḥ | abhi-jñu | pra | vṛñjate | namasā | barhiḥ | agnau | ājuhvānāḥ | ghṛta-pṛṣṭham | pṛṣat-vat | adhvaryavaḥ | haviṣā | marjayadhvam