Sukta 7.19
सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था । ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥
स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नर॑: शंसन्त्युक्थ॒शास॑ उ॒क्था । ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
sadyáś cin nú te maghavann abhíṣṭau náraḥ śáṃsanty ukthaśā́sa ukthā́ | yé te hávebhir ví paṇī́ṃr adā́śan asmā́n vṛṇīṣva yújyāya tásmai ||
Even at once, O Maghavan, in thy sought-for help, the strong ones proclaim the hymns—chanters of the Word proclaiming the Word. Those who by their calls have scattered the Paṇis, choose us also for that yoking (to thy power), for that work.
स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशसः॑ । उ॒क्था । ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥सद्यः । चित् । नु । ते । मघवन् । अभिष्टौ । नरः । शंसन्ति । उक्थशसः । उक्था । ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै ॥sadyaḥ | cit | nu | te | magha-van | abhiṣṭau | naraḥ | śaṃsanti | uktha-śasaḥ | ukthā | ye | te | havebhiḥ | vi | paṇīn | adāśan | asmān | vṛṇīṣva | yujyāya | tasmai