Sukta 7.19
प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः । नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥
प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः । नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
priyā́sa ít te maghavann abhíṣṭau náro madema śaráṇe sákhāyaḥ | ní turváśaṃ ní yā́dvaṃ śiśīhy atithigvā́ya śáṃsyaṃ kariṣyán ||
O Maghavan (Indra), in thy dear and desired nearness may we, the strong souls, rejoice as comrades in the refuge. Press down Turvaśa, press down Yādva, sharpening the will for the guest-seer (Atithigva), as one who is about to accomplish what must be proclaimed (the act of luminous victory).
प्रि॒यासः॑ । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । म॒दे॒म॒ । श॒र॒णे । सखा॑यः । नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥प्रियासः । इत् । ते । मघवन् । अभिष्टौ । नरः । मदेम । शरणे । सखायः । नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिग्वाय । शंस्यम् । करिष्यन् ॥priyāsaḥ | it | te | magha-van | abhiṣṭau | naraḥ | madema | śaraṇe | sakhāyaḥ | ni | turvaśam | ni | yādvam | śiśīhi | atithi-gvāya | śaṃsyam | kariṣyan