Sukta 7.19
एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि । तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥
ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य॑ञ्चो॒ दद॑तो म॒घानि॑ । तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भू॒: सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥
eté stomā́ narā́m nṛtama túbhyam asmadryáñco dádato maghā́ni | téṣām indra vṛtrahátye śivó bhūḥ sákhā ca śūró ’vitā ca nṛṇā́m ||
These hymns of the strong, O most-manly, move from us toward thee, offering thy bounties. For them, O Indra, in the slaying of the Coverer be benign: be comrade and hero, be the protector of the souls of force.
ए॒ते । स्तोमाः॑ । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्चः । दद॑तः । म॒घानि॑ । तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ । च॒ । शूरः॑ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥एते । स्तोमाः । नराम् । नृतम । तुभ्यम् । अस्मद्र्यञ्चः । ददतः । मघानि । तेषाम् । इन्द्र । वृत्रहत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम् ॥ete | stomāḥ | narām | nṛ-tama | tubhyam | asmadryañcaḥ | dadataḥ | maghāni | teṣām | indra | vṛtra-hatye | śivaḥ | bhūḥ | sakhā | ca | śūraḥ | avitā | ca | nṛṇām