Sukta 7.19
मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै । त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥
मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यास॑: सू॒रिषु॑ स्याम ॥
mā́ te asyā́ṃ sahasāvan páriṣṭāv aghā́ya bhūma harivaḥ parādái | trā́yasva no ’vṛkébhir várūthais táva priyā́saḥ sū́riṣu syāma ||
O might-possessing one, let us not, in this encompassing crisis, become for you a cause of harm or fall away, O lord of the tawny steeds. Protect us with shelters that are not wolfish; may we be your loved ones among the illumined leaders.
मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽवः॒ । प॒रा॒ऽदै । त्राय॑स्व । नः॒ । अ॒वृ॒केभिः॑ । वरू॑थैः । तव॑ । प्रि॒यासः॑ । सू॒रिषु॑ । स्या॒म॒ ॥मा । ते । अस्याम् । सहसावन् । परिष्टौ । अघाय । भूम । हरिवः । परादै । त्रायस्व । नः । अवृकेभिः । वरूथैः । तव । प्रियासः । सूरिषु । स्याम ॥mā | te | asyām | sahasāvan | pariṣṭau | aghāya | bhūma | hari-vaḥ | parādai | trāyasva | naḥ | avṛkebhiḥ | varūthaiḥ | tava | priyāsaḥ | sūriṣu | syāma