Sukta 7.19
सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥
सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ । वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ॥
sanā́ tā́ ta indra bhójanāni rātáhavyāya dāśúṣe sudā́se | vṛ́ṣṇe te hárī vṛ́ṣaṇā yunajmi vyántu bráhmāṇi puruśā́ka vā́jam ||
From of old, O Indra, those enjoyments are yours for Sudās who offers the accepted oblation. For you the mighty one I yoke your two powerful tawny steeds; may the mantras spread out and win for us the plenitude of force, O accomplisher of many works.
सना॑ । ता । ते॒ । इ॒न्द्र॒ । भोज॑नानि । रा॒तऽह॑व्याय । दा॒शुषे॑ । सु॒ऽदासे॑ । वृष्णे॑ । ते॒ । हरी॒ इति॑ । वृष॑णा । यु॒न॒ज्मि॒ । व्यन्तु॑ । ब्रह्मा॑णि । पु॒रु॒ऽशा॒क॒ । वाज॑म् ॥सना । ता । ते । इन्द्र । भोजनानि । रातहव्याय । दाशुषे । सुदासे । वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरुशाक । वाजम् ॥sanā | tā | te | indra | bhojanāni | rāta-havyāya | dāśuṣe | su-dāse | vṛṣṇe | te | harī iti | vṛṣaṇā | yunajmi | vyantu | brahmāṇi | puru-śāka | vājam