Sukta 7.19
तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः । निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः । नि॒वेश॑ने शतत॒मावि॑वेषी॒रह॑ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥
táva cyautnā́ni vajrahasta tā́ni náva yát púro navatíṃ ca sadyáḥ | nivéśane śatatamā́ aviveṣī́r áhañ ca vṛtráṃ námucim utā́han ||
Yours are those mighty deeds, O wielder of the thunderbolt: nine (were they), when you shattered the ninety forts at once. In the settling-place you entered as the hundredth completion; and you struck Vṛtra, and you struck Namuci too.
तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुरः॑ । न॒व॒तिम् । च॒ । स॒द्यः । नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षीः॒ । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥तव । च्यौत्नानि । वज्रहस्त । तानि । नव । यत् । पुरः । नवतिम् । च । सद्यः । निवेशने । शततमा । अविवेषीः । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥tava | cyautnāni | vajra-hasta | tāni | nava | yat | puraḥ | navatim | ca | sadyaḥ | ni-veśane | śata-tamā | aviveṣīḥ | ahan | ca | vṛtram | namucim | uta | ahan