Sukta 7.19
त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् । प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥
त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभि॑: सु॒दास॑म् । प्र पौरु॑कुत्सिं त्र॒सद॑स्युमाव॒: क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥
tváṃ dhṛ́ṣṇo dhṛṣatā́ vītáhavyaṃ prā́vo viśvā́bhir ūtíbhiḥ sudā́sam | prá paurúkutsiṃ trasádasyum āvā́ḥ kṣétrasātā vṛtrahátyeṣu pūrúm ||
You, the bold one, with bold force, protected Sudās, the well-offering, with all your helps. You aided Paurukutsi, you aided Trasadasyu; in the winning of the field, in the slayings of the coverer, you upheld Pūru.
त्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् । प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒वः॒ । क्षेत्र॑ऽसाता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥त्वम् । धृष्णो इति । धृषता । वीतहव्यम् । प्र । आवः । विश्वाभिः । ऊतिभिः । सुदासम् । प्र । पौरुकुत्सिम् । त्रसदस्युम् । आवः । क्षेत्रसाता । वृत्रहत्येषु । पूरुम् ॥tvam | dhṛṣṇo iti | dhṛṣatā | vīta-havyam | pra | āvaḥ | viśvābhiḥ | ūti-bhiḥ | su-dāsam | pra | pauru-kutsim | trasadasyum | āvaḥ | kṣetra-sātā | vṛtra-hatyeṣu | pūrum