Sukta 7.19
त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये । दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥
त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑माव॒: शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥
tváṃ ha tyád indra kútsam āvā́ḥ śuśrū́ṣamāṇas tanvā̀ samaryé | dā́sáṃ yác chuṣṇáṃ kúyavaṃ ny àsmai árandhaya ārjuneyā́ya śíkṣan ||
You indeed, O Indra, did protect Kutsā when he served you with his whole being in the battle. When you brought down the Dāsa—Śuṣṇa the deceiver—subduing him for this one, you were teaching the Arjuneya the right skill of victory.
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये । दास॑म् । यत् शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आवः । शुश्रूषमाणः । तन्वा । समर्ये । दासम् । यत् शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन् ॥tvam | ha | tyat | indra | kutsam | āvaḥ | śuśrūṣamāṇaḥ | tanvā | sa-marye | dāsam | yat śuṣṇam | kuyavam | ni | asmai | arandhayaḥ | ārjuneyāya | śikṣan