Sukta 7.19
यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः । यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥
यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एक॑: कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वा॑: । यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेद॑: ॥
yás tigmáśṛṅgo vṛṣabhó ná bhīmá ékaḥ kṛṣṭī́ś cyāváyati prá viśvā́ḥ | yáḥ śáśvato adā́śuṣo gáyasya prayantā́si súsviṭarāya védaḥ ||
He who is sharp-horned, a bull in might, formidable—alone he can set all the peoples into right motion. He who, for ever, is the forward-leader of the non-offerer’s vitality: you are the knower who guides toward a happier, more luminous passage.
यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ । यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥यः । तिग्मशृङ्गः । वृषभः । न । भीमः । एकः । कृष्टीः । च्यवयति । प्र । विश्वाः । यः । शश्वतः । अदाशुषः । गयस्य । प्रयन्ता । असि । सुस्वितराय । वेदः ॥yaḥ | tigma-śṛṅgaḥ | vṛṣabhaḥ | na | bhīmaḥ | ekaḥ | kṛṣṭīḥ | cyavayati | pra | viśvāḥ | yaḥ | śaśvataḥ | adāśuṣaḥ | gayasya | pra-yantā | asi | susvi-tarāya | vedaḥ