Sukta 7.19
नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व । उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥
नू इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व । उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū́ índra śūra stávamāna ūtī́ bráhmajūtas tanvā̀ vāvṛdhasva | úpa no vā́jān mimīhy úpa stī́n yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Now, O Indra the Hero, being praised, increase in thy help—impelled by the brahman (the soul’s truth-word)—grow in thy body of power. Build up for us the vājās (plenitudes of force), build up our firm stations; do you protect us always with well-being.
नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒ध॒स्व॒ । उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । इन्द्र । शूर । स्तवमानः । ऊती । ब्रह्मजूतः । तन्वा । ववृधस्व । उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | indra | śūra | stavamānaḥ | ūtī | brahma-jūtaḥ | tanvā | vavṛdhasva | upa | naḥ | vājān | mimīhi | upa | stīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ