Sukta 7.18
ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम । सुदास इन्द्रः सुतुकाँ अमित्रानरन्धयन्मानुषे वध्रिवाचः ॥
ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम । सु॒दास॒ इन्द्र॑: सु॒तुकाँ॑ अ॒मित्रा॒नर॑न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥
īyúr árthaṃ ná nyàrthaṃ páruṣṇīm āśúś canéd abhipitváṃ jagāma | su-dā́sa índraḥ su-túkāṃ amítrān árandhayan mā́nuṣe vádhri-vācaḥ ||
They moved for the true aim, not for the aimless; swiftly indeed they came to the near-settlement by the Paruṣṇī. For Sudās, Indra subdued the well-striking foes, silencing in the human field the voices that speak division and mutilation.
ई॒युः । अर्थ॑म् । न । नि॒ऽअ॒र्थम् । परु॑ष्णीम् । आ॒शुः । च॒न । इत् । आ॒भि॒ऽपि॒त्वम् । ज॒गा॒म॒ । सु॒ऽदासे॑ । इन्द्रः॑ । सु॒ऽतुका॑न् । अ॒मित्रा॑न् । अर॑न्धयत् । मानु॑षे । वध्रि॑ऽवाचः ॥ईयुः । अर्थम् । न । निअर्थम् । परुष्णीम् । आशुः । चन । इत् । आभिपित्वम् । जगाम । सुदासे । इन्द्रः । सुतुकान् । अमित्रान् । अरन्धयत् । मानुषे । वध्रिवाचः ॥īyuḥ | artham | na | ni-artham | paruṣṇīm | āśuḥ | cana | it | ābhi-pitvam | jagāma | su-dāse | indraḥ | su-tukān | amitrān | arandhayat | mānuṣe | vadhri-vācaḥ