Sukta 7.18
दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम् । मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥
दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वय॑न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् । म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥
durādhyò adítiṃ srévayanto 'cetaso ví jagṛbhre páruṣṇīm | mahnā́vivyak pṛthivī́ṃ pátyamānaḥ paśúṣ kavír aśayac cā́yamānaḥ ||
Hard to master, they sought to violate Aditi; without right awareness they seized the Paruṣṇī apart. But he, by greatness, made earth wide and held mastery; the seer, though as if a bound beast, laid low the assailant even while being pursued.
दु॒रो॒ध्यः॑ । अदि॑तिम् । स्रे॒वय॑न्तः । अ॒चे॒तसः॑ । वि । ज॒गृ॒भ्रे॒ । परू॑ष्णीम् । म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य॑मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय॑मानः ॥दुरोध्यः । अदितिम् । स्रेवयन्तः । अचेतसः । वि । जगृभ्रे । परूष्णीम् । मह्ना । अविव्यक् । पृथिवीम् । पत्यमानः । पशुः । कविः । अशयत् । चायमानः ॥durodhyaḥ | aditim | srevayantaḥ | acetasaḥ | vi | jagṛbhre | parūṣṇīm | mahnā | avivyak | pṛthivīm | patyamānaḥ | paśuḥ | kaviḥ | aśayat | cāyamānaḥ