Sukta 7.18
ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः । पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च ॥
ई॒युर्गावो॒ न यव॑सा॒दगो॑पा यथाकृ॒तम॒भि मि॒त्रं चि॒तास॑: । पृश्नि॑गाव॒: पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रन्त॑यश्च ॥
īyúr gā́vo ná yávasād ágopā yáthākṛtam abhí mítraṃ citā́saḥ | pṛ́śnigāvaḥ pṛ́śninipreṣitāsaḥ śruṣṭíṃ cakrur niyúto rántayaś ca ||
They moved like cattle from the pasture, unguided; by what was done they pressed even upon Mitra, the luminous-minded. Spotted with mixed impulses, driven by the spotted force, they made the assault; yoked together, the Rantayas too joined the clamor.
ई॒युः । गावः॑ । न । यव॑सात् । अगो॑पाः । य॒था॒ऽकृ॒तम् । अ॒भि । मि॒त्रम् । चि॒तासः॑ । पृश्नि॑ऽगावः । पृश्नि॑ऽनिप्रेषितासः । श्रु॒ष्टिम् । च॒क्रुः॒ । नि॒ऽयुतः॑ । रन्त॑यः । च॒ ॥ईयुः । गावः । न । यवसात् । अगोपाः । यथाकृतम् । अभि । मित्रम् । चितासः । पृश्निगावः । पृश्निनिप्रेषितासः । श्रुष्टिम् । चक्रुः । नियुतः । रन्तयः । च ॥īyuḥ | gāvaḥ | na | yavasāt | agopāḥ | yathākṛtam | abhi | mitram | citāsaḥ | pṛśni-gāvaḥ | pṛśni-nipreṣitāsaḥ | śruṣṭim | cakruḥ | ni-yutaḥ | rantayaḥ | ca